Thursday, 15 October 2020

Neeti Satakam - Devanagari version

 

नीति शतकं

 

दिक्कालाद्यनवच्छिन्नानन्त चिन्मात्र मूर्तये ।

स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ।। 1 ।।

 

दिक्-कालादि-अनवच्छिन्न-अनन्त चिन्मात्र मूर्तये ।

स्वानुभूति-एक-मानाय नमः शान्ताय तेजसे ।। 1 ।।

 

यां चिन्तयामि सततं मयि सा विरक्ता

साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।

अस्मत्कृते च परिशुष्यति काचिदन्या

धिक् तां च तं च मदनं च इमां च मां च ।। 2 ।।

 

यां चिन्तयामि सततं मयि सा विरक्ता

सापि-अन्यम्-इच्छति जनं स जनो-अन्य-सक्तः ।

अस्मत्-कृते च परिशुष्यति काचिद्-अन्या

धिक् तां च तं च मदनं च इमां च मां च ।। 2 ।।

 

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।

ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।। 3।।

 

अज्ञः सुखम्-आराध्यः सुखतरम्-आराध्यते विशेषज्ञः ।

ज्ञन-लव-दुर्विदग्धं ब्रह्मा-अपि नरं न रञ्जयति ।। 3।।

 

प्रसह्य मणिमुद्धरेन्-मकर वक्त्र दंष्ट्रान्तरात्

समुद्रमपि सन्तरेत्-प्रचलद्-ऊर्मिमालाकुलम् ।

भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्

न तु प्रतिनिविष्ट-मूर्खजन चित्तमाराधयेत् ।। 4 ।।

 

प्रसह्य मणिम्-उद्धरेत्-मकर वक्त्र दंष्ट्र-अन्तरात्

समुद्रम्-अपि सन्तरेत्-प्रचलद्-ऊर्मि-माला-आकुलम् ।

भुजङ्गम्-अपि कोपितं शिरसि पुष्पवद्-धारयेत्

न तु प्रति-निविष्ट-मूर्ख-जन चित्तम्-आराधयेत् ।। 4 ।।

 

लभेत सिकतासु तैलमपि यत्नतः पीड्यन्-

पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।

कदाचिदपि पर्यटन्-शशविषाणमासादयेन्-

न तु प्रतिनिविष्ट-मूर्खजन चित्तमाराधयेत् ।। 5 ।।

 

लभेत सिकतासु तैलम्-अपि यत्नतः पीड्यन्-

पिबेत्-च मृग-तृष्णिकासु सलिलं पिपासा-आर्दितः ।

कदाचिद्-अपि पर्यटन्-शश-विषाणम्-आसादयेत्-

न तु प्रति-निविष्ट-मूर्ख-जन चित्तम्-आराधयेत् ।। 5 ।।

 

व्यालं बालमृणाल-तन्तुभिरसौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्रमणीं शिरीषकुसुमप्रान्तेन सन्नह्यते ।

माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते

नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ।। 6 ।।

 

व्यालं बाल-मृणाल-तन्तुभिः-असौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्र-मणीं शिरीष-कुसुम-प्रान्तेन सन्नह्यते ।

माधुर्यं मधु-बिन्दुना रचयितुं क्षाराम्बुधेः-ईहते

नेतुं वाञ्छति यः खलान्-पथि सतां सूक्तैः सुधा-स्यन्दिभिः ।। 6 ।।

 

स्वायात्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।। 7 ।।

 

स्वायात्-तम्-एकान्त-गुणं विधात्रा विनिर्मितं छादनम्-अज्ञतायाः ।

विशेषतः सर्व-विदां समाजे विभूषणं मौनम्-अपण्डितानाम् ।। 7 ।।

 

यदा किञ्चिञ्ज्ञोऽहं द्विप इव मदान्धः समभवं

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।

यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।। 8 ।।

 

द्विप -  गज

 

यदा किञ्चित्-ज्ञः-अहं द्विपः इव मद-अन्धः समभवं

तदा सर्वज्ञः-अस्मि-इति-अभवद्-अवलिप्तं मम मनः ।

यदा किञ्चित्-किञ्चिद्-बुध-जन-सकाशाद्-अवगतं

तदा मूर्खो-अस्मि-इति ज्वर इव मदो मे व्यपगतः ।। 8 ।।

 

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं

निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् ।

सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ।। 9 ।।

 

कृमि-कुलचितं लाला-क्लिन्नं विगन्धि जुगुप्सितं

निरुपम-रस-प्रीत्या खादन्-नर-अस्थि निरामिषम् ।

सुर-पतिम्-अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ।। 9 ।।

 

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं

महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।

अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा

विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।। 10 ।।

 

शिरः शार्वं स्वर्गात्-पशुपति-शिरस्तः क्षिति-धरं

महीध्राद्-उत्तुङ्गाद्-अवनिम्-अवनेश्च-अपि जलधिम् ।

अधो-अधो गङ्गा-इयं पदम्-उपगता स्तोकम्-अथवा

विवेक-भ्रष्टानां भवति विनिपातः शत-मुखः ।। 10 ।।

 

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ।। 11 ।।

 

शक्यो वारयितुं जलेन हुतभुक्-छत्रेण सूर्या-तपो

नागेन्द्रो निशित-अङ्कुशेन समदो दण्डेन गो-गर्दभौ ।

व्याधिः-भेषज-सङ्ग्रहैश्च विविधैः-मन्त्र-प्रयोगैः-विषं

सर्वस्य-औषधम्-अस्ति शास्त्र-विहितं मूर्खस्य नास्ति-औषधम् ।। 11 ।।

 

साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।

तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ।। 12 ।।

 

साहित्य-सङ्गीत-कला-विहीनः साक्षात्-पशुः पुच्छ-विषाण-हीनः ।

तृणं न खादन्-अपि जीवमानः तद्-भागधेयं परमं पशूनाम् ।। 12 ।।

 

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।

ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ।। 13 ।।

 

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।

ते मर्त्य-लोके भुवि भारभूताः मनुष्य-रूपेण मृगाः-चरन्ति ।। 13 ।।

 

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।

न मूर्खजन सम्पर्कः सुरेन्द्रभवनेष्वपि ।। 14 ।।

 

वरं पर्वत-दुर्गेषु भ्रान्तं वन-चरैः सह ।

न मूर्ख-जन सम्पर्कः सुरेन्द्र-भवनेषु-अपि ।। 14 ।।

 

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा

विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।

तज्जाड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः

कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ।। 15 ।।

 

कवयो ह्यर्थं - कवयस्त्वर्थं

 

शास्त्र-उपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेय-आगमा

विख्याताः कवयो वसन्ति विषये यस्य प्रभोः-निर्धनाः ।

तत्-जाड्यं वसुधा-अधिपस्य कवयो हि-अर्थं विनापि-ईश्वराः

कुत्स्याः स्युः कुपरीक्षका न मणयो यैः-अर्घतः पातिताः ।। 15 ।।

 

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-

ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं परां ।

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं

येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ।। 16 ।।

 

सर्वदाह्यर्थिभ्यः - सर्वदाऽप्यर्थिभ्यः 

 

हर्तुः-याति न गोचरं किमपि शं पुष्णाति यत्-सर्वदा-

हि-अर्थिभ्यः प्रतिपाद्यमानम्-अनिशं प्राप्नोति वृद्धिं परां ।

कल्पान्तेषु-अपि न प्रयाति निधनं विद्या-आख्यम्-अन्तर्धनं

येषां तान्-प्रति मानम्-उज्झत नृपाः कः-तैः सह स्पर्धते ।। 16 ।।

 

अधिगतपरमार्थान् पण्डितान् मावमंस्था-

स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।

अभिनवमदलेखाश्यामगण्डस्थलानां

न भवति बिसतन्तुर्वारणं वारणानाम् ।। 17 ।।

 

अधिगत-परमार्थान् पण्डितान् मा-अवमंस्थाः-

तृणम्-इव लघु लक्ष्मीः-नैव तान् संरुणद्धि ।

अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानां

न भवति बिसतन्तुः-वारणं वारणानाम् ।। 17 ।।

 

अम्भोजिनीवननिवासविलासमेव

हंसस्य हन्ति नितरां कुपितो विधाता ।

न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ।। 18 ।।

 

निवास - विहार

 

अम्भोजिनी-वन-निवास-विलासम्-एव

हंसस्य हन्ति नितरां कुपितो विधाता ।

न तु-अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां

वैदग्ध्य-कीर्तिम्-अपहर्तुम्-असौ समर्थः ।। 18 ।।

 

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। 19 ।।

           

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्र-उज्ज्वला

न स्नानं न विलेपनं न कुसुमं न-अलङ्कृता मूर्धजाः ।

वाणी-एका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाक्-भूषणं भूषणम् ।। 19 ।।

 

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परा देवता

विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ।। 20 ।।

 

विद्या नाम नरस्य रूपम्-अधिकं प्रच्छन्न-गुप्तं धनं

विद्या भोग-करी यशः-सुख-करी विद्या गुरूणां गुरुः ।

विद्या बन्धु जनो विदेश गमने विद्या परा देवता

विद्या राजसु पूजिता न तु धनं विद्या-विहीनः पशुः ।। 20 ।।

 

क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां

ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।

किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि

व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ।। 21 ।।

 

क्षान्तिः-चेत् कवचेन किं किम्-अरिभिः क्रोधः-अस्ति चेद्-देहिनां

ज्ञातिः-चेद्-अनलेन किं यदि सुहृद् दिव्य-औषधैः किं फलम् ।

किं सर्पैः-यदि दुर्जनाः किमु धनैः-विद्या-अनवद्या यदि

व्रीडा चेत्-किमु भूषणैः सुकविता यदि-अस्ति राज्येन किम् ।। 21 ।।

 

दाक्षिण्यं स्वजने दया परजने शाठ्यं दुर्जने

प्रीतिः साधुजने नयो नृपजने विद्वज्जनेप्यार्जवम् ।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता

ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ।। 22 ।।

 

नारीजने धूर्तता - कान्ताजने धृष्टता

 

दाक्षिण्यं स्वजने दया पर-जने शाठ्यं दुर्जने

प्रीतिः साधु-जने नयो नृप-जने विद्वद्-जने-अपि-आर्जवम् ।

शौर्यं शत्रु-जने क्षमा गुरु-जने नारी-जने धूर्तता

ये चैवं पुरुषाः कलासु कुशलाः-तेषु-एव लोक-स्थितिः ।। 22 ।।

 

जाड्यं धियो हरति सिञ्चति वाचि सत्यं

मानोन्नतिं दिशति पापमपाकरोति ।

चेतः प्रसादयति दिक्षु तनोति कीर्तिं

सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। 23 ।।

 

जाड्यं धियो हरति सिञ्चति वाचि सत्यं

मान-उन्नतिं दिशति पापम्-अपाकरोति ।

चेतः प्रसादयति दिक्षु तनोति कीर्तिं

सत्-सङ्गतिः कथय किं न करोति पुंसाम् ।। 23 ।।

 

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः

नास्ति येषां यशःकाये जरामरणजं भयम् ।। 24 ।।

 

जयन्ति ते सुकृतिनो रस-सिद्धाः कवि-ईश्वराः

नास्ति येषां यशः-काये जरा-मरणजं भयम् ।। 24 ।।

 

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः

स्निग्धं मित्रमवञ्चकः परिजनो निष्क्लेशलेशं मनः ।

आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं

तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ।। 25 ।।

 

विष्टपकष्टहारिणि हरौ - विष्टपहारिणीष्टदहरौ

 

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसाद-उन्मुखः

स्निग्धं मित्रम्-अवञ्चकः परिजनो निष्क्लेश-लेशं मनः ।

आकारो रुचिरः स्थिरश्च विभवो विद्या-अवदातं मुखं

तुष्टे विष्टप-कष्ट-हारिणि हरौ संप्राप्यते देहिना ।। 25 ।।

 

प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं

काले शक्त्या प्रदानं युवतिजनकथा मूकभावः परेषाम् ।

तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा

सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। 26 ।।

 

प्राण-आघातात्-निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं

काले शक्त्या प्रदानं युवतिजनकथा मूकभावः परेषाम् ।

तृष्णा-स्रोतो-विभङ्गो गुरुषु च विनयः सर्व-भूत-अनुकम्पा

सामान्यः सर्व-शास्त्रेषु-अनुपहत-विधिः श्रेयसाम्-एष पन्थाः ।। 26 ।।

 

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः

प्रारब्धमुत्तमजना न परित्यजन्ति ।। 27 ।।

 

उत्तमजना - उत्तमगुणा

 

प्रारभ्यते न खलु विघ्न-भयेन नीचैः

प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।

विघ्नैः पुनः पुनरपि प्रति-हन्यमानाः

प्रारब्धम्-उत्तम-जना न परित्यजन्ति ।। 27 ।।

 

प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरं

त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः ।

विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां

सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। 28 ।।

 

त्वसन्तो - असन्तो

 

प्रिया न्याय्या वृत्तिः-मलिनम्-असुभङ्गे-अपि-असुकरं

तु-असन्तो न-अभ्यर्थ्याः सुहृद्-अपि न याच्यः कृश-धनः ।

विपदि-उच्चैः स्थेयं पदम्-अनुविधेयं च महतां

सतां केन-उद्दिष्टं विषमम्-असिधारा-व्रतम्-इदम् ।। 28 ।।

 

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्-

आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।

मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः

किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरिः ।। 29 ।।

 

नश्यत्स्वपि - गच्छत्स्वपि

 

क्षुत्-क्षामः-अपि जरा-कृशः-अपि शिथिल-प्रायः-अपि कष्टां दशाम्-

आपन्नः-अपि विपन्न-दीधितिः-अपि प्राणेषु नश्यत्सु-अपि ।

मत्त-इभ-इन्द्र-विभिन्न-कुम्भ-कवल-ग्रास-एक-बद्ध-स्पृहः

किं जीर्णं तृण-मत्ति मान-महताम्-अग्रेसरः केसरिः ।। 29 ।।

 

स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं

श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये ।

सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं

सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलं ।। 30 ।।

 

स्वल्प-स्नायु-वसा-अवशेष-मलिनं निर्मांसम्-अपि-अस्थिकं

श्वा लब्ध्वा परितोषम्-एति न तु तत्-तस्य क्षुधा-शान्तये ।

सिंहो जम्बुकम्-अङ्कम्-आगतम्-अपि त्यक्त्वा निहन्ति द्विपं

सर्वः कृच्छ्र-गतः-अपि वाञ्छति जनः सत्त्व-अनुरूपं फलं ।। 30 ।।

 

लाङ्गूलचालनमधश्चरणावपातं

भूमौ निपत्य वदनोदरदर्शनं च ।

श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु

धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ।। 31 ।।

 

लाङ्गूल-चालनम्-अधः-चरण-अवपातं

भूमौ निपत्य वदन-उदर-दर्शनं च ।

श्वा पिण्डदस्य कुरुते गज-पुङ्गवः-तु

धीरं विलोकयति चाटु-शतैः-च भुङ्क्ते ।। 31 ।।

 

परिवर्तिनि संसारे मृतः को वा न जायते ।

स जातो येन जातेन याति वंशः समुन्नतिम् ।। 32 ।।

 

कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।

मूर्ध्नि वा सर्वलोकस्य विशीर्येत वनेऽथवा ।। 33 ।।

 

कुसुम-स्तबकस्य-इव द्वयी वृत्तिः-मनस्विनः ।

मूर्ध्नि वा सर्व-लोकस्य विशीर्येत वने-अथवा ।। 33 ।।

 

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः

तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।

द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्वरौ

भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ।। 34 ।।

 

दिनेश्वर - दिवाकर

 

सन्ति-अन्ये-अपि बृहस्पति-प्रभृतयः संभाविताः पञ्चषाः

तान् प्रति-एष विशेष-विक्रम-रुची राहुः-न वैरायते ।

द्वौ-एव ग्रसते दिनेश्वर-निशा-प्राणेश्वरौ भास्वरौ

भ्रातः पर्वणि पश्य दानव-पतिः शीर्ष-अवशेष-आकृतिः ।। 34 ।।

 

वहति भुवनश्रेणीं शेषः फणाफलकस्थितां

कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।

तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-

दहह महतां निःसीमानश्चरित्रविभूतयः ।। 35 ।।

 

फणाफलकस्थितां - फणाफलस्थितां

क्रोडाधीनं - क्रोधाधीनं

 

वहति भुवन-श्रेणीं शेषः फणा-फलक-स्थितां

कमठ-पतिना मध्ये पृष्ठं सदा स च धार्यते ।

तमपि कुरुते क्रोड-अधीनं पयोधिः-अनादरात्-

अहह महतां निःसीमानः-चरित्र-विभूतयः ।। 35 ।।

 

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिश-

प्रहारैरुद्गच्छद्बहलदहनोद्गारगुरुभिः ।

तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे

न चासौ संपातः पयसि पयसां पत्युरुचितः ।। 36 ।।

 

बहलदहनोद्गार - बहुलदहनोद्गार

 

वरं पक्षः-छेदः समद-मघवन्-मुक्त-कुलिश-

प्रहारैः-उद्गच्छद्-बहल-दहन-उद्गार-गुरुभिः ।

तुषार-अद्रेः सूनोः-अहह पितरि क्लेश-विवशे

न च-असौ संपातः पयसि पयसां पत्युः-उचितः ।। 36 ।।

 

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।

तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ।। 37 ।।

 

यत्-अचेतनः-अपि पादैः स्पृष्टः प्रज्वलति सवितुः-इन-कान्तः ।

तत्-तेजस्वी पुरुषः पर-कृत-निकृतिं कथं सहते ।। 37 ।।

 

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ।। 38 ।।

 

सिंहः शिशुः-अपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु ।

प्रकृतिः-इयं सत्त्ववतां न खलु वयस्-तेजसो हेतुः ।। 38 ।।

 

जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु

शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना ।

शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं

येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ।। 39 ।।

 

गुणगणस्तस्याप्यधो गच्छतु - गुणगणैस्तत्राप्यधो गम्यतां

 

जातिः-यातु रसातलं गुणगणः-तस्यापि-अधो गच्छतु

शीलं शैल-तटात्-पततु-अभिजनः सन्दह्यतां वह्निना ।

शौर्ये वैरिणि वज्रम्-आशु निपततु-अर्थः-अस्तु नः केवलं

येन-एकेन विना गुणाः-तृण-लव-प्रायाः समस्ता इमे ।। 39 ।।

 

तानीन्द्रियाणि सकलानि तदेव कर्म

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव

त्वन्यः क्षणेन भवतीति विचित्रमेतत् ।। 40 ।।

 

तानीन्द्रियाणि सकलानि तदेव कर्म - तानीन्द्रियाणविकलानि तदेव नाम

पुरुषः स एव - पुरुषः क्षणेन

त्वन्यः क्षणेन - सोऽप्यन्य एव

 

तानि-इन्द्रियाणि सकलानि तत्-एव कर्म

सा बुद्धिः-अप्रतिहता वचनं तदेव ।

अर्थ-उष्मणा विरहितः पुरुषः स एव

तु-अन्यः क्षणेन भवति-इति विचित्रम्-एतत् ।। 40 ।।

 

यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान्-गुणज्ञः ।

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनमाश्रयन्ते ।। 41 ।।

 

काञ्चनमाश्रयन्ते - काञ्चनमाश्रयन्ति

 

यस्य-अस्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान्-गुणज्ञः ।

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनम्-आश्रयन्ते ।। 41 ।।

 

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद्-

विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।

ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्-

मैत्री चाप्रणयात् समृद्धिरनयात् त्यागप्रमादाद्धनम् ।। 42 ।।

 

त्यागप्रमादाद्धनम् - त्यागः प्रमादाद्धनम् - त्यागात्प्रमादाद्धनम्

 

दौर्मन्त्र्यात्-नृपतिः-विनश्यति यतिः सङ्गात् सुतो लालनात्-

विप्रः-अनध्ययनात् कुलं कुतनयात्-शीलं खल-उपासनात् ।

ह्रीः-मद्यात्-अनवेक्षणात्-अपि कृषिः स्नेहः प्रवास-आश्रयात्-

मैत्री च-अप्रणयात् समृद्धिः-अनयात् त्याग-प्रमादात्-धनम् ।। 42 ।।

 

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।। 43 ।।

 

दानं भोगो नाशः-तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिः-भवति ।। 43 ।।

 

मणिः शाणोल्लीढः समरविजयी हेतिनिहतो

मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।

कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता

तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ।। 44 ।।

 

हेतिनिहतो - हेतिदलितो

मदक्षीणो - मदक्षीबो

सरिदाश्यानपुलिना - सरितः श्यानपुलिना

जनाः - नराः

 

मणिः शाण-उल्लीढः समर-विजयी हेति-निहतो

मद-क्षीणो नागः शरदि सरिद्-आश्यानपुलिना ।

कला-शेषः-चन्द्रः सुरत-मृदिता बाल-वनिता

तनिम्ना शोभन्ते गलित-विभवाः-च-अर्थिषु जनाः ।। 44 ।।

 

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये

स पश्चात् संपूर्णः कलयति धरित्रीं तृणसमाम् ।

अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिनाम्-

अवस्था वस्तूनि प्रथयति च संकोचयति च ।। 45 ।।

 

परिक्षीणः कश्चित्-स्पृहयति यवानां प्रसृतये

स पश्चात् संपूर्णः कलयति धरित्रीं तृण-समाम् ।

अतः-च-अनैकान्त्याद्-गुरु-लघुतया-अर्थेषु धनिनां-

अवस्था वस्तूनि प्रथयति च संकोचयति च ।। 45 ।।

 

राजन् दुधुक्षसि यदि क्षितिधेनुमेतां

तेनाद्य वत्समिव लोकममुं पुषाण ।

तस्मिंश्च सम्यगनिशं परिपोष्यमाणे

नानाफलैः फलति कल्पलतेव भूमिः ।। 46 ।।

 

राजन् दुधुक्षसि यदि क्षिति-धेनुम्-एतां

तेन-अद्य वत्सम्-इव लोकम्-अमुं पुषाण ।

तस्मिन्-च सम्यग्-अनिशं परिपोष्यमाणे

नाना-फलैः फलति कल्प-लता-इव भूमिः ।। 46 ।।

 

सत्यानृता च परुषा प्रियवादिनी च

हिंस्रा दयालुरपि चार्थपरा वदान्या ।

नित्यव्यया प्रचुरनित्यधनागमा च

वाराङ्गनेव नृपनीतिरनेकरूपा ।। 47 ।।

 

सत्या-अनृता च परुषा प्रिय-वादिनी च

हिंस्रा दयालुः-अपि च-अर्थपरा वदान्या ।

नित्य-व्यया प्रचुर-नित्य-धन-आगमा च

वाराङ्गना-इव नृप-नीतिः-अनेक-रूपा ।। 47 ।।

 

आज्ञा कीर्तिः पालनं ब्राह्मणानां

दानं भोगो मित्रसंरक्षणं च ।

येषामेते षड्गुणा न प्रवृत्ताः

कोऽर्थस्तेषां पार्थिवोपाश्रयेण ।। 48 ।।

 

आज्ञा कीर्तिः पालनं ब्राह्मणानां

दानं भोगो मित्र-संरक्षणं च ।

येषाम्-एते षड्गुणा न प्रवृत्ताः

कः-अर्थः-तेषां पार्थिव-उपाश्रयेण ।। 48 ।।

 

यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं

तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।

तद्वीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः

कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ।। 49 ।।

 

यत्-धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महत्-वा धनं

तत् प्राप्नोति मरु-स्थले-अपि नितरां मेरौ ततो न-अधिकम् ।

तत्-वीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः

कूपे पश्य पयो-निधौ-अपि घटो गृह्णाति तुल्यं जलम् ।। 49 ।।

 

त्वमेव चातकाधारोसीति केषां न गोचरः ।

किमम्भोद-वरास्माकं कार्पण्योक्तिं प्रतीक्षसे ।। 50 ।।

 

चातकाधारोसीति - चातकाधार ईति

वरास्माकं - वदास्माकं

 

त्वम्-एव चातक-आधारः-असि-इति केषां न गोचरः ।

किम्-अम्भोद-वर-अस्माकं कार्पण्य-उक्तिं प्रतीक्षसे ।। 50 ।।

 

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्-

अम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।

केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।। 51 ।।

 

हि सन्ति - वसन्ति

वसुधां - धरणीं

 

रे रे चातक सावधान-मनसा मित्र क्षणं श्रूयताम्-

अम्भोदा बहवो हि सन्ति गगने सर्वे-अपि न-एतादृशाः ।

केचिद्-वृष्टिभिः-आर्द्रयन्ति वसुधां गर्जन्ति केचिद्-वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।। 51 ।।

 

अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा ।

सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ।। 52 ।।

 

अकरुणत्वम्-अकारण-विग्रहः पर-धने पर-योषिति च स्पृहा ।

सुजन-बन्धु-जनेषु-असहिष्णुता प्रकृति-सिद्धम्-इदं हि दुरात्मनाम् ।। 52 ।।

 

दुर्जनः परिहर्तव्यो विद्यया भूषितोऽपि सन् ।

मणिनालंकृतः सर्पः किमसौ न भयङ्करः ।। 53 ।।

 

विद्यया भूषितोऽपि - विद्ययालंकृतोऽपि

मणिनालंकृतः - मणिना भूषितः

 

दुर्जनः परिहर्तव्यो विद्यया भूषितः-अपि सन् ।

मणिना-अलंकृतः सर्पः किम्-असौ न भयङ्करः ।। 53 ।।

 

जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं

शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।

तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे

तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ।। 54 ।।

 

जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं

शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।

तेजस्विनि-अवलिप्तता मुखरता वक्तरि-अशक्तिः स्थिरे

तत्-को नाम गुणो भवेत्-स गुणिनां यो दुर्जनैः-न-अङ्कितः ।। 54 ।।

 

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः

सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।

सौजन्यं यदि किं निजैः स्वमहिमा यद्यस्ति किं मण्डनैः

सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ।। 55 ।।

 

किं निजैः - किं जनैः - किं गुणैः

स्वमहिमा - सुमहिमा

 

लोभः-चेद्-अगुणेन किं पिशुनता यदि-अस्ति किं पातकैः

सत्यं चेत्-तपसा च किं शुचि मनो यदि-अस्ति तीर्थेन किम् ।

सौजन्यं यदि किं निजैः स्वमहिमा यदि-अस्ति किं मण्डनैः

सद्विद्या यदि किं धनैः-अपयशो यदि-अस्ति किं मृत्युना ।। 55 ।।

 

शशी दिवसधूसरो गलितयौवना कामिनी

सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।

प्रभुर्धनपरायणः सततदुर्गतः सज्जनो

नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ।। 56 ।।

 

शशी दिवस-धूसरो गलित-यौवना कामिनी

सरो विगत-वारिजं मुखम्-अनक्षरं सु-आकृतेः ।

प्रभुः-धन-परायणः सतत-दुर्गतः सज्जनो

नृप-अङ्गण-गतः खलो मनसि सप्त शल्यानि मे ।। 56 ।।

 

न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।

होतारमपि जुह्वानं स्पृष्टो दहति पावकः ।। 57 ।।

 

न कश्चित्-चण्ड-कोपानाम्-आत्मीयो नाम भूभुजाम् ।

होतारम्-अपि जुह्वानं स्पृष्टो दहति पावकः ।। 57 ।।

 

मौनान्मूकः प्रवचनपटुश्चाटुलो जल्पको वा

धृष्टः पार्श्वे भवति च वसन्दूरतोप्यप्रगल्भः ।

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। 58 ।।

 

चाटुलो - वातुलो      

भवति च वसन्दूरतोपि - वसति च सदा  दूरतश्च

 

मौनात्-मूकः प्रवचन-पटुः-चाटुलो जल्पको वा

धृष्टः पार्श्वे भवति च वसन्-दूरतः-अपि-अप्रगल्भः ।

क्षान्त्या भीरुः-यदि न सहते प्रायशो न-अभिजातः

सेवा-धर्मः परम-गहनः योगिनाम्-अपि-अगम्यः ।। 58 ।।

 

उद्भासिताखिलखलस्य विशृङ्खलस्य

प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।

दैवादवाप्तविभवस्य गुणद्विषोऽस्य

नीचस्य गोचरगतैः सुखमास्यते कैः ।। 59 ।।

 

विस्मृत - विस्तृत

सुखमास्यते - सुखमाप्यते

 

उद्भासित-अखिल-खलस्य विशृङ्खलस्य

प्राग्जात-विस्मृत-निज-अधम-कर्म-वृत्तेः ।

दैवाद्-अवाप्त-विभवस्य गुण-द्विषः-अस्य

नीचस्य गोचर-गतैः सुखम्-आस्यते कैः ।। 59 ।।

 

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ।। 60 ।।

 

आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्व-अर्ध-पर-अर्ध-भिन्ना छाया-इव मैत्री खल-सज्जनानाम् ।। 60 ।।

 

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।

लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।। 61 ।।

 

मृग-मीन-सज्जनानां तृण-जल-सन्तोष-विहित-वृत्तीनाम् ।

लुब्धक-धीवर-पिशुना निष्कारण-वैरिणः जगति ।। 61 ।।

 

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता

विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।

भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले

एते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ।। 62 ।।

 

एते येषु - एष्वेते

 

वाञ्छा सज्जन-सङ्गमे पर-गुणे प्रीतिः-गुरौ नम्रता

विद्यायां व्यसनं स्व-योषिति रतिः-लोक-अपवादात्-भयम् ।

भक्तिः शूलिनि शक्तिः-आत्म-दमने संसर्ग-मुक्तिः खले

एते येषु वसन्ति निर्मल-गुणाः-तेभ्यो नरेभ्यो नमः ।। 62 ।।

 

 

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरतिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।। 63 ।।

 

चाभिरतिः - चाभिरुचिः

 

विपदि धैर्यं-अथ-अभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।

यशसि च-अभिरतिः-व्यसनं श्रुतौ प्रकृति-सिद्धं-इदं हि महात्मनाम् ।। 63 ।।

 

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः

प्रियं कृत्वा मौनं सदसि कथनं नाप्युपकृतेः ।

अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः

सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। 64 ।।

 

नाप्युपकृतेः - चाप्युपकृतेः

निरभिभवसाराः - अनभिभवगन्धाः

 

प्रदानं प्रच्छन्नं गृहम्-उपगते सम्भ्रम-विधिः

प्रियं कृत्वा मौनं सदसि कथनं न-अपि-उपकृतेः ।

अनुत्सेको लक्ष्म्यां निरभिभव-साराः पर-कथाः

सतां केन-उद्दिष्टं विषमम्-असिधारा-व्रतम्-इदम् ।। 64 ।।

 

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता

मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।

हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर्-

विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ।। 65 ।।

 

करे श्लाघ्यः-त्यागः शिरसि गुरु-पाद-प्रणयिता

मुखे सत्या वाणी विजयि भुजयोः-वीर्यम्-अतुलम् ।

हृदि स्वच्छा वृत्तिः श्रुतम्-अधिगतं च श्रवणयोः-

विना-अपि-ऐश्वर्येण प्रकृति-महतां मण्डनम्-इदम् ।। 65 ।।

 

सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ।। 66 ।।

 

सम्पत्सु महतां चित्तं भवति-उत्पल-कोमलम् ।

आपत्सु च महा-शैल-शिला-सङ्घात-कर्कशम् ।। 66 ।।

 

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते

मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।

स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते

प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ।। 67 ।।

 

न श्रूयते - न ज्ञायते

सन्मौक्तिकं - तन्मौक्तिकं

 

सन्तप्त-अयसि संस्थितस्य पयसः नाम-अपि न श्रूयते

मुक्ता-आकारतया तत्-एव नलिनी-पत्र-स्थितं राजते ।

स्वात्यां सागर-शुक्ति-मध्य-पतितं सन्मौक्तिकं जायते

प्रायेण-अधम-मध्यम-उत्तम-गुणः संसर्गतः जायते ।। 67 ।।

 

 

प्रीणाति यः सुचरितैः पितरं स पुत्रो

यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।

तन्मित्रमापदि सुखे च समक्रियं यद्-

एतत्त्रयं जगति पुण्यकृतो लभन्ते ।। 68 ।।

 

प्रीणाति यः सुचरितैः पितरं स पुत्रो

यत्-भर्तुः-एव हितम्-इच्छति तत्-कलत्रम् ।

तत्-मित्रम्-आपदि सुखे च सम-क्रियं यत्-

एतत्-त्रयं जगति पुण्य-कृतो लभन्ते ।। 68 ।।

 

 

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः

स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।

क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः

सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ।। 69 ।।

 

दुर्मुखान् - दुर्जनान्

 

नम्रत्वेन-उन्नमन्तः पर-गुण-कथनैः स्वान्-गुणान्-ख्यापयन्तः

स्वार्थान्-सम्पादयन्तः वितत-पृथुतर-आरम्भ-यत्नाः पर-अर्थे ।

क्षान्त्या-एव-आक्षेप-रूक्ष-अक्षर-मुखर-मुखान्-दुर्मुखान्-दूषयन्तः

सन्तः स-आश्चर्य-चर्या जगति बहुमताः कस्य न-अभ्यर्चनीयाः ।। 69 ।।

 

भवन्ति नम्रास्तरवः फलोद्गमैर्-

नवाम्बुभिर्भूरिविलम्बिनो घनाः ।

अनुद्धताः सत्पुरुषाः समृद्धिभिः

स्वभाव एवैष परोपकारिणाम् ।। 70 ।।

 

भूरिविलम्बिनो - दूरावलम्बिनो

 

भवन्ति नम्राः-तरवः फल-उद्गमैः-

नव-अम्बुभिः-भूरि-विलम्बिनो घनाः ।

अनुद्धताः सत्पुरुषाः समृद्धिभिः

स्वभाव एव-एष पर-उपकारिणाम् ।। 70 ।।

 

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।

विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।। 71 ।।

 

श्रोत्रं श्रुतेन-एव न कुण्डलेन दानेन पाणिः-न तु कङ्कणेन ।

विभाति कायः करुणा-पराणां परोपकारैः-न तु चन्दनेन ।। 71 ।।

 

पापान्निवारयति योजयते हिताय

गुह्यं च गूहति गुणान्प्रकटीकरोति ।

आपद्गतं च न जहाति ददाति काले

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। 72 ।।

 

च गूहति - निगूहति

प्रवदन्ति - निगदन्ति

 

पापात्-निवारयति योजयते हिताय

गुह्यं च गूहति गुणान्-प्रकटी-करोति ।

आपद्-गतं च न जहाति ददाति काले

सन्मित्र-लक्षणम्-इदं प्रवदन्ति सन्तः ।। 72 ।।

 

पद्माकरं दिनकरो विकचीकरोति

चन्द्रो विकासयति कैरवचक्रवालम् ।

नाभ्यर्थितो जलधरोऽपि जलं ददाति

सन्तः स्वयं परहितेषु कृताभियोगाः ।। 73 ।।

 

परहितेषु विहिताभियोगाः - परहिते सुकृताभियोगाः

 

पद्म-आकरं दिन-करो विकची-करोति

चन्द्रः विकासयति कैरव-चक्रवालम् ।

न-अभ्यर्थितो जल-धरः-अपि जलं ददाति

सन्तः स्वयं पर-हितेषु कृत-अभियोगाः ।। 73 ।।

 

एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।

तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।। 74 ।।

 

निघ्नन्ति - विघ्नन्ति

ये तु घ्नन्ति - ये विघ्नन्ति

 

एते सत्-पुरुषाः पर-अर्थ-घटकाः स्व-अर्थं परित्यज्य ये

सामान्याः-तु पर-अर्थम्-उद्यम-भृतः स्व-अर्थ-अविरोधेन ये ।

ते-अमी मानव-राक्षसाः पर-हितं स्व-अर्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं पर-हितं ते के न जानीमहे ।। 74 ।।

 

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः

क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।

गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं

युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ।। 75 ।।

 

क्षीरे तापम् - क्षीरोत्तापम्

दृष्टा - दृष्ट्वा

 

क्षीरेण-आत्मगत-उदकाय हि गुणा दत्ताः पुरा ते-अखिलाः

क्षीरे तापम्-अवेक्ष्य तेन पयसा स्व-आत्मा कृशानौ हुतः ।

गन्तुं पावकम्-उन्मनः-तत्-अभवद् दृष्ट्वा तु मित्र-आपदं

युक्तं तेन जलेन शाम्यति सतां मैत्री पुनः-तु-ईदृशी ।। 75 ।।

 

 

इतः स्वपिति केशवः कुलमितस्तदीयद्विषां-

इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।

इतोऽपि वडवानलः सह समस्तसंवर्तकैः-

अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ।। 76 ।।

 

इतः स्वपिति केशवः कुलम्-इतः-तदीय-द्विषां-

इतः-च शरण-अर्थिनां शिखरिणां गणाः शेरते ।

इतः-अपि वडवा-अनलः सह समस्त-संवर्तकैः-

अहो विततम्-ऊर्जितं भर-सहं च सिन्धोः-वपुः ।। 76 ।।

 

तृष्णां छिन्धि भज क्ष्मां जहि मदं पापे रतिं मा कृथाः

सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।

मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्-गुणान्-

कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ।। 77 ।।

 

प्रच्छादय स्वान्-गुणान् - प्रख्यापय प्रश्रयं

लक्षणम् - चेष्टितम्

 

तृष्णां छिन्धि भज क्ष्मां जहि मदं पापे रतिं मा कृथाः

सत्यं ब्रूहि-अनुयाहि साधु-पदवीं सेवस्व विद्वत्-जनम् ।

मान्यान्-मानय विद्विषः-अपि-अनुनय प्रच्छादय स्वान्-गुणान्-

कीर्तिं पालय दुःखिते कुरु दयाम्-एतत्-सतां लक्षणम् ।। 77 ।।

 

मनसि वचसि काये पुण्यपीयूषपूर्णाः-

त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।

परगुणपरमाणून्पर्वतीकृत्य नित्यं

निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। 78 ।।

 

मनसि वचसि काये पुण्य-पीयूष-पूर्णाः-

त्रिभुवनम्-उपकार-श्रेणिभिः प्रीणयन्तः ।

पर-गुण-परमाणून्-पर्वती-कृत्य नित्यं

निज-हृदि विकसन्तः सन्ति सन्तः कियन्तः ।। 78 ।।

 

किं तेन हेमगिरिणा रजताद्रिणा वा

यत्राश्रिताश्च तरवस्तरवस्त एव ।

मन्यामहे मलयमेव यदाश्रयेण

कङ्कोलनिम्बकुटजा अपि चन्दनानि ।। 79 ।।

 

चन्दनानि - चन्दनाः स्युः

तरवस्त एव - तरवन्त एव

 

किं तेन हेम-गिरिणा रजत-अद्रिणा वा

यत्र-आश्रिताः-च तरवः-तरवः-त एव ।

मन्यामहे मलयम्-एव यत्-आश्रयेण

कङ्कोल-निम्ब-कुटजा अपि चन्दनानि ।। 79 ।।

 

रत्नैर्महार्हैस्तुतुषुर्न देवा

न भेजिरे भीमविषेण भीतिम् ।

सुधां विना न प्रययुर्विरामं

न निश्चितार्थाद्विरमन्ति धीराः ।। 80 ।।

 

रत्नैः-महार्हैः-तुतुषुः-न देवा

न भेजिरे भीम-विषेण भीतिम् ।

सुधां विना न प्रययुः-विरामं

न निश्चित-अर्थात्-विरमन्ति धीराः ।। 80 ।।

 

क्वचिद्भूमीशायी क्वचिदपि च पर्यङ्कशयनः

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।

क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो

मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।। 81 ।।

 

भूमीशायी - पृथ्वीशय्यः

 

क्वचित्-भूमी-शायी क्वचित्-अपि च पर्यङ्क-शयनः

क्वचित्-शाक-आहारी क्वचित्-अपि च शालि-ओदन-रुचिः ।

क्वचित्-कन्था-धारी क्वचित्-अपि च दिव्य-अम्बर-धरः

मनस्वी कार्य-आर्थी गणयति न दुःखं न च सुखम् ।। 81 ।।

 

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।

अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।। 82 ।।

 

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो

ज्ञानस्य-उपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।

अक्रोधः-तपसः क्षमा प्रभवितुः-धर्मस्य निर्व्याजता

सर्वेषाम्-अपि सर्व-कारणम्-इदं शीलं परं भूषणम् ।। 82 ।।

 

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।। 83 ।।

 

निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथा-इष्टम् ।

अद्य-एव वा मरणम्-अस्तु युग-अन्तरे वा

न्याय्यात्-पथः प्रविचलन्ति पदं न धीराः ।। 83 ।।

 

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।

अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ।। 84 ।।

 

कदर्थितस्य-अपि हि धैर्य-वृत्तेः-न शक्यते धैर्य-गुणः प्रमार्ष्टुम् ।

अधो-मुखस्य-अपि कृतस्य वह्नेः-न-अधः शिखा याति कदाचित्-एव ।। 84 ।।

 

कान्ताकटाक्षविशिखा न लुनन्ति यस्य

चित्तं न निर्दहति कोपकृशानुतापः ।

कर्षन्ति भूरिविषयाश्च न लोभपाशैर्-

लोकत्रयं जयति कृत्स्नमिदं स धीरः ।। 85 ।।

 

कान्ता-कटाक्ष-विशिखा न लुनन्ति यस्य

चित्तं न निर्दहति कोप-कृशानु-तापः ।

कर्षन्ति भूरि-विषयाः-च न लोभ-पाशैः-

लोक-त्रयं जयति कृत्स्नम्-इदं स धीरः ।। 85 ।।

 

पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः ।

प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः ।। 86 ।।

 

पातितः-अपि कर-आघातैः-उत्पतति-एव कन्दुकः ।

प्रायेण साधु-वृत्तानाम्-अस्थायिन्यो विपत्तयः ।। 86 ।।

 

वरं तुङ्गाच्छृङ्गादुरुशिखरिणः क्वापि विषमे

पतित्वायं कायः कठिनदृषदन्तर्विदलितः ।

वरं न्यस्तो हस्तः फणिपतिमुखे तीव्रदशने

वरं वह्नौ पातस्तदपि न कृतः शीलविलयः ।। 87 ।।

 

वरं तुङ्गात्-शृङ्गात्-उरु-शिखरिणः क्व-अपि विषमे

पतित्वा-अयं कायः कठिन-दृषद्-अन्तर्-विदलितः ।

वरं न्यस्तो हस्तः फणि-पति-मुखे तीव्र-दशने

वरं वह्नौ पातः-तत्-अपि न कृतः शील-विलयः ।। 87 ।।

 

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्-

मेरुःस्वल्पशिलायते मृगपतिः सद्यःकुरङ्गायते ।

व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते

यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ।। 88 ।।

 

वह्निः-तस्य जलायते जल-निधिः कुल्यायते तत्-क्षणात्-

मेरुः-स्वल्प-शिलायते मृग-पतिः सद्यः-कुरङ्गायते ।

व्यालो माल्य-गुणायते विष-रसः पीयूष-वर्षायते

यस्य-अङ्गे-अखिल-लोक-वल्लभतमं शीलं समुन्मीलति ।। 88 ।।

 

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।

इति विमृशन्तः सन्तः सन्तप्यन्ते न विप्लुता लोके ।। 89 ।।

 

क्षीणोऽप्युपचीयते पुनश्चन्द्रः -

चन्द्रः क्षीणोऽपि  वर्धते लोके -

चन्द्रः क्षीणोऽपि  वर्धते पुनः

न विप्लुता लोके -  न लोकेऽस्मिन् - न दुःकेषु

 

छिन्नः-अपि रोहति तरुः क्षीणः-अपि-उपचीयते पुनः-चन्द्रः ।

इति विमृशन्तः सन्तः सन्तप्यन्ते न विप्लुता लोके ।। 89 ।।

 

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।

इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे

तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ।। 90 ।।

 

खलु - किल

 

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्गम्-अनुग्रहः खलु हरेः-ऐरावतो वारणः ।

इति-ऐश्वर्य-बलान्वितः-अपि बलभिद्-भग्नः परैः सङ्गरे

तत्-व्यक्तं ननु दैवम्-एव शरणं धिग्-धिग्-वृथा पौरुषम् ।। 90 ।।

 

भग्नाशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा

कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा

लोकाः पश्यत  दैवमेव हि नृणां वृद्धौ क्षये कारणम् ।। 91 ।।

 

पीडित - पिण्डित

 

भग्न-आशस्य करण्ड-पीडित-तनोः-म्लान-इन्द्रियस्य क्षुधा

कृत्वा-आखुः-विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

तृप्तः-तत्-पिशितेन सत्वरम्-असौ तेन-एव यातः पथा

लोकाः पश्यत  दैवम्-एव हि नृणां वृद्धौ क्षये कारणम् ।। 91 ।।

 

कार्यायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।

तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ।। 92 ।।

 

कार्यायत्तं - कर्मायत्तं

 

कार्य-आयत्तं फलं पुंसां बुद्धिः कर्म-अनुसारिणी ।

तथा-अपि सुधिया भाव्यं सुविचार्य-एव कुर्वता ।। 92 ।।

 

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके

वाञ्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः ।

तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ।। 93 ।।

 

तत्राप्यस्य महाफलेन - तत्रोच्चैर्महता फलेन

तत्रैव यान्त्यापदः - तत्रापदां भाजनम्

 

खल्वाटो दिवस-ईश्वरस्य किरणैः सन्तापितो मस्तके

वाञ्छन्-देशम्-अनातपं विधि-वशात्-तालस्य मूलं गतः ।

तत्र-अपि-अस्य महा-फलेन पतता भग्नं सशब्दं शिरः

प्रायो गच्छति यत्र भाग्य-रहितः-तत्र-एव यान्ति-आपदः ।। 93 ।।

 

 

शशिदिवाकरयोर्ग्रहपीडनं गजभुजंगमयोरपि बन्धनम् ।

मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ।। 94 ।।

 

शशिदिवाकर - रविनिशाकर

 

शशि-दिवाकरयोः-ग्रह-पीडनं गज-भुजंगमयोः-अपि बन्धनम् ।

मति-मतां च विलोक्य दरिद्रतां विधिः-अहो बलवान्-इति मे मतिः ।। 94 ।।

 

सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः ।

तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ।। 95 ।।

 

सृजति तावद्-अशेष-गुणाकरं पुरुष-रत्नम्-अलङ्करणं भुवः ।

तत्-अपि तत्-क्षण-भङ्गि करोति चेद्-अहह कष्टम्-अपण्डितता विधेः ।। 95 ।।

 

अयममृतनिधानं नायकोप्योषधीनां

शतभिषगनुयातः शम्भुमूर्धोवतंसः ।

विरहयति न चैनं राजयक्ष्मा शशाङ्कं

हतविधिपरिपाकः केन वा लङ्घनीयः ।। 96 ।।

 

अयम्-अमृत-निधानं नायकः-अपि-ओषधीनां

शतभिषक्-अनुयातः शम्भु-मूर्ध-अवतंसः ।

विरहयति न च-एनं राज-यक्ष्मा शशाङ्कं

हत-विधि-परिपाकः केन वा लङ्घनीयः ।। 96 ।।

 

दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं

तत्तस्योपनमेन्मनागपि महान्नैवाश्रयः कारणम् ।

सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं

सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ।। 97 ।।

 

दैवेन प्रभुणा स्वयं जगति यत्-यस्य प्रमाणी-कृतं

तत्-तस्य-उपनमेत्-मनाक्-अपि महान्-न-एव-आश्रयः कारणम् ।

सर्व-आशा-परिपूरके जल-धरे वर्षति-अपि प्रत्यहं

सूक्ष्मा एव पतन्ति चातक-मुखे द्वित्राः पयः-बिन्दवः ।। 97 ।।

 

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं

नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।

धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्

यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ।। 98 ।।

 

पत्रं न-एव यदा करीर-विटपे दोषो वसन्तस्य किं

न-उलूकः-अपि-अवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।

धारा न-एव पतन्ति चातक-मुखे मेघस्य किं दूषणम्

यत्-पूर्वं विधिना ललाट-लिखितं तत्-मार्जितुं कः क्षमः ।। 98 ।।

 

नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा

विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।

फलं कर्मायत्तं किममरगणैः किं च विधिना

नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ।। 99 ।।

 

किममरगणैः - यदि किममरैः

 

नमस्यामो देवान्-ननु हत-विधेः-ते-अपि वशगा

विधिः-वन्द्यः सः-अपि प्रति-नियत-कर्म-एक-फलदः ।

फलं कर्म-आयत्तं किं-अमर-गणैः किं च विधिना

नमः-तत्-कर्मभ्यो विधिः-अपि न येभ्यः प्रभवति ।। 99 ।।

 

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे

विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।

रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः

सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।। 100 ।।

 

ब्रह्मा येन कुलालवत्-नियमितो ब्रह्माण्ड-भाण्ड-उदरे

विष्णुः-येन दश-अवतार-गहने क्षिप्तो महा-सङ्कटे ।

रुद्रो येन कपाल-पाणि-पुटक भिक्षा-अटनं कारितः

सूर्यो भ्राम्यति नित्यम्-एव गगने तस्मै नमः कर्मणे ।। 100 ।।

 

नैवाकृतिः फलति नैव कुलं न शीलं

विद्यापि नैव न च यत्नकृतापि सेवा ।

भाग्यानि पूर्वतपसा खलु सञ्चितानि

काले फलन्ति पुरुषस्य यथैव वृक्षाः ।। 101 ।।

 

भाग्यानि - भाग्यनि

 

न-एव-आकृतिः फलति न-एव कुलं न शीलं

विद्या-अपि न-एव न च यत्न-कृता-अपि सेवा ।

भाग्यानि पूर्व-तपसा खलु सञ्चितानि

काले फलन्ति पुरुषस्य यथा-एव वृक्षाः ।। 101 ।।

 

वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।

सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ।। 102 ।।

 

वने रणे शत्रु-जल-अग्नि-मध्ये महा-अर्णवे पर्वत-मस्तके वा ।

सुप्तं प्रमत्तं विषम-स्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ।। 102 ।।

 

या साधूंश्च खलान्-करोति विदुषो मूर्खान्हितान्द्वेषिणः

प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।

तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं

हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ।। 103 ।।

 

या साधून्-च खलान्-करोति विदुषो मूर्खान्-हितान्-द्वेषिणः

प्रत्यक्षं कुरुते परोक्षम्-अमृतं हालाहलं तत्-क्षणात् ।

ताम्-आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं

हे साधो व्यसनैः-गुणेषु विपुलेषु-आस्थां वृथा मा कृथाः ।। 103 ।।

 

शुभ्रं सद्म सविभ्रमा युवतयः-श्वेतातपत्रोज्ज्वला

लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।

विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं

मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ।। 104 ।।

 

शुभ्रं सद्म सविभ्रमा युवतयः-श्वेत-अतपत्र-उज्ज्वला

लक्ष्मीः-इति-अनुभूयते चिरम्-अनुस्यूते शुभे कर्मणि ।

विच्छिन्ने नितराम्-अनङ्ग-कलह-क्रीडा-त्रुटत्-तन्तुकं

मुक्ता-जालम्-इव प्रयाति झटिति भ्रश्यत्-दिशो दृश्यताम् ।। 104 ।।

 

गुणवदगुणवद्वा कुर्वता कार्यमादौ

परिणतिरवधार्या यत्नतः पण्डितेन ।

अतिरभसकृतानां कर्मणामाविपत्तेर्-

भवति हृदयदाही शल्यतुल्यो विपाकः ।। 105 ।।

 

कार्यमादौ - कार्यजातं

 

गुणवद्-अगुणवद्-वा कुर्वता कार्यम्-आदौ

परिणतिः-अवधार्या यत्नतः पण्डितेन ।

अतिरभस-कृतानां कर्मणाम्-आविपत्तेः-

भवति हृदय-दाही शल्य-तुल्यो विपाकः ।। 105 ।।

 

स्थाल्यां वैडूर्यमय्यां पचति तिलखलीं चान्दनैरिन्धनौघैः

सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतोः ।

छित्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्तात्-

प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ।। 106 ।।

 

तिलखलीं - तिलकणां

छित्वा - कृत्वा

 

स्थाल्यां वैडूर्य-मय्यां पचति तिल-खलीं चान्दनैः-इन्धन-औघैः

सौवर्णैः-लाङ्गल-अग्रैः-विलिखति वसुधाम्-अर्क-मूलस्य हेतोः ।

छित्वा कर्पूर-खण्डान्-वृतिम्-इह कुरुते कोद्रवाणां समन्तात्-

प्राप्य-इमां कर्म-भूमिं न चरति मनुजो यः-तपो मन्द-भाग्यः ।। 106 ।।

 

मज्जत्वम्भसि यातु मेरुशिखरं शत्रुञ्जयत्वाहवे

वाणिज्यं कृषिसेवनादि सकला विद्याः कला शिक्षताम् ।

आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं

नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ।। 107 ।।

 

कृषिसेवनादि - कृषिसेवने च

 

मज्जतु-अम्भसि यातु मेरु-शिखरं शत्रुं-जयतु-आहवे

वाणिज्यं कृषि-सेवन-आदि सकला विद्याः कला शिक्षताम् ।

आकाशं विपुलं प्रयातु खगवत्-कृत्वा प्रयत्नं परं

न-अभाव्यं भवति-इह कर्म-वशतो भाव्यस्य नाशः कुतः ।। 107 ।।

 

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः सुजनतामुपयाति तस्य

कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा

यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ।। 108 ।।

 

सुजनताम् - स्वजनताम्

 

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः सुजनताम्-उपयाति तस्य

कृत्स्ना च भूः-भवति सन्निधि-रत्न-पूर्णा

यस्य-अस्ति पूर्व-सुकृतं विपुलं नरस्य ।। 108 ।।

 

विविधविषयकाः - Miscellaneous subjects

           

आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।। 1 ।।

 

महान्रिपुः - महारिपुः

कृत्वा यं - कुर्वाणो

 

आलस्यं हि मनुष्याणां शरीरस्थो महान्-रिपुः ।

नास्ति-उद्यम-समो बन्धुः कृत्वा यं न-अवसीदति ।। 1 ।।

 

को लाभो गुणिसङ्गमः किमसुखं प्राज्ञेतरैः सङ्गतिः

का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।

कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं

विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् ।। 2 ।।

 

को लाभो गुणि-सङ्गमः किं-असुखं प्राज्ञ-इतरैः सङ्गतिः

का हानिः समय-च्युतिः-निपुणता का धर्म-तत्त्वे रतिः ।

कः शूरो विजित-इन्द्रियः प्रियतमा का-अनुव्रता किं धनं

विद्या किं सुखं-अप्रवास-गमनं राज्यं किं-आज्ञा-फलम् ।। 2 ।।

 

मालतीकुसुमस्येव द्वे गती ह मनस्विनः ।

मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ।। 3 ।।

 

मालती-कुसुमस्य-इव द्वे गती ह मनस्विनः ।

मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा ।। 3 ।।

 

(almost repeat of श्लोक 33)

 

अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।

परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ।। 4 ।।

 

अप्रिय-वचन-दरिद्रैः प्रिय-वचन-आढ्यैः स्वदार-परितुष्टैः ।

पर-परिवाद-निवृत्तैः क्वचित्-क्वचित्-मण्डिता वसुधा ।। 4 ।।

 

एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।

क्रियते भास्करेणेव स्फारस्फुरिततेजसा ।। 5 ।।

 

एकेन-अपि हि शूरेण पाद-आक्रान्तं मही-तलम् ।

क्रियते भास्करेण-इव स्फार-स्फुरित-तेजसा ।। 5 ।।

 

लज्जागुणौघजननीं जननीमिव स्वां-

अत्यन्तशुद्धहृदयामनुवर्तमानाम् ।

तेजस्विनः सुखमसूनपि संत्यजन्ति

सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ।। 6 ।।

 

लज्जा-गुण-ओघ-जननीं जननीं-इव स्वां-

अत्यन्त-शुद्ध-हृदयां-अनुवर्तमानाम् ।

तेजस्विनः सुखं-असून्-अपि संत्यजन्ति

सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ।। 6 ।।

 

अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं

भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते।

चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं

नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ।। 7 ।।

 

अग्राह्यं हृदयं यथा-एव वदनं यत्-दर्पण-अन्तर्गतं

भावः पर्वत-सूक्ष्म-मार्ग-विषमः स्त्रीणां न विज्ञायते।

चित्तं पुष्कर-पत्र-तोय-तरलं विद्वद्भिः-आशंसितं

नारी नाम विष-अङ्कुरैः-इव लता दोषैः समं वर्धिता ।। 7 ।।

 

(This SlOka is found as part of SRngAra SatakaM)

 

अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा स्वर्गः ।

उभयबलसाधुवादः श्रवणसुखोसौ बतात्यर्थम् ।। 8 ।।

 

श्रवणसुखोसौ बतात्यर्थम् - श्रवणसुखस्यैव नास्त्यन्तः

 

अभिमुख-निहतस्य सतः-तिष्ठतु तावत्-जयः-अथवा स्वर्गः ।

उभय-बल-साधु-वादः श्रवण-सुखः-असौ बत-अत्यर्थम् ।। 8 ।।

 

 

इत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये

वराहो वा राहुः प्रभवति चमत्कारविषयः ।।

महीमेको मग्नां यदयमवहद्धन्त सलिले

शिरःशेषः शत्रुं निगिलति परः संत्यजति च ।। 9 ।।

 

इति-एतस्मिन्-वा निरवधि-चमत्कृति-अतिशये

वराहो वा राहुः प्रभवति चमत्कार-विषयः ।।

महीम्-एको मग्नां यत्-अयम्-अवहद्-हन्त सलिले

शिरःशेषः शत्रुं निगिलति परः संत्यजति च ।। 9 ।।

 

उदन्वच्छन्ना भूः स च निधिरपां योजनशतं

सदा पान्थः पूषा गगनपरिमाणं कलयति ।

इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः

सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ।। 10 ।।

 

उदन्वत्-छन्ना भूः स च निधिः-अपां योजन-शतं

सदा पान्थः पूषा गगन-परिमाणं कलयति ।

इति प्रायो भावाः स्फुरद्-अवधि-मुद्रा-मुकुलिताः

सतां प्रज्ञा-उन्मेषः पुनः-अयम्-असीमा विजयते ।। 10 ।।

 

(This SlOka is found in Vijnana Satakam)

 

एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा ।

एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ।। 11 ।।

 

शिवो वा एकं - शिवो वा ह्येकं

वने वा एका - वने वा ह्येका

 

एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिः-वा यतिः-वा ।

एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ।। 11 ।।

 

कमठकुलाचलदिग्गजफणिपतिविधृतापि चलति वसुधेयम् ।

प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेपि ।। 12 ।।

 

कमठ-कुल-अचल-दिक्-गज-फणि-पति-विधृता-अपि चलति वसुधा-इयम् ।

प्रतिपन्नम्-अमल-मनसां न चलति पुंसां युग-अन्ते-अपि ।। 12 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्

किंवा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।

किंत्वङ्गीकृतमुत्सृजन्स्वमनसा श्लाघ्यो जनो लज्जते

निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ।। 13 ।।

 

किंत्वङ्गीकृतमुत्सृजन्स्वमनसा - किं चाङ्गीकृतमुत्सृजन्हि मनसा

 

किं कूर्मस्य भर-व्यथा न वपुषि क्ष्मां न क्षिपति-एष यत्

किं-वा न-अस्ति परिश्रमो दिन-पतेः-आस्ते न यत्-निश्चलः ।

किं-तु-अङ्गीकृतम्-उत्सृजन्-स्वमनसा श्लाघ्यो जनो लज्जते

निर्वाहः प्रतिपन्न-वस्तुषु सताम्-एतत्-हि गोत्र-व्रतम् ।। 13 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

को न याति वशं लोके मुखे पिण्डेन पूरितः ।

मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ।। 14 ।।

 

को न याति वशं लोके मुखे पिण्डेन पूरितः ।

मृदङ्गो मुख-लेपेन करोति मधुर-ध्वनिम् ।। 14 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः

स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।

दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो

जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ।। 15 ।।

 

निदाघसंभृतजगत् - निदाघतापितजगत्

 

क्षुद्राः सन्ति सहस्रशः स्वभरण-व्यापार-मात्र-उद्यताः

स्व-अर्थो यस्य पर-अर्थ एव स पुमान्-एकः सताम्-अग्रणीः ।

दुष्पूर-उदर-पूरणाय पिबति स्रोतः-पतिं वाडवो

जीमूतः-तु निदाघ-संभृत-जगत्-संताप-विच्छित्तये ।। 15 ।।

 

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

दूरादर्थं घटयति नवं दूरातश्चापशब्दं

त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु ।

मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या

कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ।। 16 ।।

 

दूरात्-अर्थं घटयति नवं दूरातः-च-अप-शब्दं

त्यक्त्वा भूयो भवति निरतः सत्सभा-रञ्जनेषु ।

मन्दं मन्दं रचयति पदं लोक-चित्त-अनुवृत्त्या

कामं मन्त्री कविः-इव सदा खेद-भारैः-अमुक्तः ।। 16 ।।

 

दूरातः-च-अप-शब्दं - दूरातः-चाप-शब्दं (श्लिष्ट)

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् ।

यास्त्वेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ।। 17 ।।

 

यास्त्वेषां - यास्तेषां

 

(This SlOka is found in संस्कृत सुभाषितेः)

 

प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि

तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ।। 18 ।।

 

तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा -

तथा पतत्यनार्यस्तु मृत्पिण्डपतनं तथा

 

प्रायः कन्दुक-पातेन-उत्पतति-आर्यः पतन्नपि

तथा तु-अनार्यः पतति मृत्-पिण्ड-पतनं यथा ।। 18 ।।

 

यदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम् ।

अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ।। 19 ।।

 

यदि नाम दैव-गत्या जगत्-असरोजं कदाचित्-अपि जातम् ।

अवकर-निकरं विकिरति तत्-किं कृकवाकुः-इव हंसः ।। 19 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

यन्नागा मदवारिभिन्नकरटास्तिष्ठन्ति निद्रालसा

द्वारे हेमविभूषणाश्च तुरगा वल्गन्ति यद्दर्पिताः ।

वीणावेणुमृदङ्गशङ्खपटहैः सुप्तस्तु यद्बोध्यते

तत्सर्वं सुरलोकदेवसदृशं धर्मस्य विस्फूर्जितम् ।। 20 ।।

 

मदवारिभिन्नकर - मदभिन्नगण्डकर

 

यत्-नागा मद-वारि-भिन्न-करटाः-तिष्ठन्ति निद्रा-अलसा

द्वारे हेम-विभूषणाः-च तुरगा वल्गन्ति यत्-दर्पिताः ।

वीणा-वेणु-मृदङ्ग-शङ्ख-पटहैः सुप्तः-तु यत्-बोध्यते

तत्-सर्वं सुर-लोक-देव-सदृशं धर्मस्य विस्फूर्जितम् ।। 20 ।।

 

रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।

असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ।। 21 ।।

 

रक्तत्वं कमलानां सत्-पुरुषाणां पर-उपकारित्वम् ।

असतां च निर्दयत्वं स्वभाव-सिद्धं त्रिषु त्रितयम् ।। 21 ।।

 

(This SlOka is found in सुभाषितावलि)

 

वचोहि सत्यं परमं विभूषणं

लज्जाङ्गनायाः कृशता कटौ च

द्विजस्य विद्यैव पुनस्तथा क्षमा

शीलं हि सर्वस्य नरस्य भूषणम् ।। 22 ।।

 

लज्जाङ्गनायाः - गजाङ्गनायाः

 

वचो-हि सत्यं परमं विभूषणं

लज्जा-अङ्गनायाः कृशता कटौ च

द्विजस्य विद्या-एव पुनः-तथा क्षमा

शीलं हि सर्वस्य नरस्य भूषणम् ।। 22 ।।

 

प्रियसखि विपद्दण्डाघातप्रपातपरम्परा-

परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।

मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवद्-

भ्रमयति मनो नो जानीमः किमत्र विधास्यति ।। 23 ।।

 

प्रिय-सखि विपद्-दण्ड-आघात-प्रपात-परम्परा-

परिचय-चले चिन्ता-चक्रे निधाय विधिः खलः ।

मृदम्-इव बलात्-पिण्डी-कृत्य प्रगल्भ-कुलालवद्-

भ्रमयति मनो नो जानीमः किम्-अत्र विधास्यति ।। 23 ।।

 

विरम विरसायासादस्माद्दुरध्यवसायतो

विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।

अयि जडमते कल्पापाये व्यपेतनिजक्रमाः

कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ।। 24 ।।

 

यदीक्षितुमीहसे - यदीशितुमीहसे

जडमते कल्पापाये - जडविधे कल्पापाय

 

विरम विरस-आयासाद्-अस्माद्-दुरध्यवसायतो

विपदि महतां धैर्य-ध्वंसं यद्-ईक्षितुम्-ईहसे ।

अयि जडमते कल्प-अपाये व्यपेत-निज-क्रमाः

कुल-शिखरिणः क्षुद्रा न-एते न वा जल-राशयः ।। 24 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

 

स्पृहयति भुजयोरन्तरमायतकरवालकररुहविदीर्णम् ।

विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव ।। 25 ।।

 

स्पृहयति भुजयोः-अन्तरम्-आयत-करवाल-कर-रुह-विदीर्णम् ।

विजय-श्रीः-वीराणां व्युत्पन्न-प्रौढ-वनिता-इव ।। 25 ।।

 

(This SlOka is found in सुभाषित रत्न भण्डागारं)

No comments:

Post a Comment